Samachar Nama
×

शनिदेव को प्रसन्न करने के लिए ये उपाय माना गया है कारगर

www.samacharnama.com

ज्योतिष न्यूज़ डेस्क: हर दिन किसी न किसी देवी देवता की पूजा को समर्पित हैं वही शनिवार का दिन भगवान शनिदेव की पूजा के लिए श्रेष्ठ माना गया है इस दिन भक्त भगवान शनिदेव की विधिवत पूजा करते हैं और व्रत आदि भी रखते हैं लेकिन इसी के साथ ही अगर आज के दिन श्री शनि सहस्रनाम स्तोत्र का पाठ भक्ति भाव से किया जाए तो भगवान प्रसन्न हो जाते हैं और अपनी कृपा बरसते हैं जिससे सुख समृद्धि और सफलता हासिल होती है।  

Do these remedies on Saturday

श्री शनि सहस्रनाम स्तोत्र—

ध्यानम् ।

चापासनो गृध्रधरस्तु नीलः
प्रत्यङ्मुखः काश्यप गोत्रजातः ।
सशूलचापेषु गदाधरोऽव्यात्
सौराष्ट्रदेशप्रभवश्च शौरिः ॥

नीलाम्बरो नीलवपुः किरीटी
गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः
सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥

ॐ अमिताभाष्यघहरः अशेषदुरितापहः ।
अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥ १॥

अनन्तो अन्नदाता चाश्वत्थमूलजपप्रियः ।
अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या प्रकोपितः ॥ २॥

अपराजितो अद्वितीयः अतितेजोऽभयप्रदः ।
अष्टमस्थोऽञ्जननिभः अखिलात्मार्कनन्दनः ॥ ३॥

अतिदारुण अक्षोभ्यः अप्सरोभिः प्रपूजितः ।
अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ ४॥

अनुग्राह्यो अप्रमेय पराक्रम विभीषणः ।
असाध्ययोगो अखिल दोषघ्नः अपराकृतः ॥ ५॥

अप्रमेयोऽतिसुखदः अमराधिपपूजितः ।
अवलोकात् सर्वनाशः अश्वत्थाम द्विरायुधः ॥ ६॥

अपराधसहिष्णुश्च अश्वत्थाम सुपूजितः ।
अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च ॥ ७॥

अवलोकात् सर्ववन्द्यः अक्षीणकरुणानिधिः ।
अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥ ८॥

आनन्दपरिपूर्णश्च आयुष्कारक एव च ।
आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि च ॥ ९॥

आनन्दमय आनन्दकरो आयुधधारकः ।
आत्मचक्राधिकारी च आत्मस्तुत्यपरायणः ॥ १०॥

आयुष्करो आनुपूर्व्यः आत्मायत्तजगत्त्रयः ।
आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥ ११॥

Do these remedies on Saturday

आदित्यसंभवो आर्तिभञ्जनो आत्मरक्षकः ।
आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि च ॥ १२॥

आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रदः ।
आनुकूल्यो आत्मरूप प्रतिमादान सुप्रियः ॥ १३॥

आत्मारामो आदिदेवो आपन्नार्ति विनाशनः ।
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रदः ॥ १४॥

इन्द्रदेवस्वरूपश्च इष्टेष्टवरदायकः ।
इष्टापूर्तिप्रद इन्दुमतीष्टवरदायकः ॥ १५॥

इन्दिरारमणप्रीत इन्द्रवंशनृपार्चितः ।
इहामुत्रेष्टफलद इन्दिरारमणार्चितः ॥ १६॥

ईद्रिय ईश्वरप्रीत ईषणात्रयवर्जितः ।
उमास्वरूप उद्बोध्य उशना उत्सवप्रियः ॥ १७॥

उमादेव्यर्चनप्रीत उच्चस्थोच्चफलप्रदः ।
उरुप्रकाश उच्चस्थ योगद उरुपराक्रमः ॥ १८॥

ऊर्ध्वलोकादिसञ्चारी ऊर्ध्वलोकादिनायकः ।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः ॥ १९॥

ऋषिप्रोक्त पुराणज्ञ ऋषिभिः परिपूजितः ।
ऋग्वेदवन्द्य ऋग्रूपी ऋजुमार्ग प्रवर्तकः ॥ २०॥

लुळितोद्धारको लूत भवपाशप्रभञ्जनः ।
लूकाररूपको लब्धधर्ममार्गप्रवर्तकः ॥ २१॥

एकाधिपत्यसाम्राज्यप्रद एनौघनाशनः ।
एकपाद्येक एकोनविंशतिमासभुक्तिदः ॥ २२॥

एकोनविंशतिवर्षदश एणाङ्कपूजितः ।
ऐश्वर्यफलद ऐन्द्र ऐरावतसुपूजितः ॥ २३॥

ओंकार जपसुप्रीत ओंकार परिपूजितः ।
ओंकारबीज औदार्य हस्त औन्नत्यदायकः ॥ २४॥

Do these remedies on Saturday

औदार्यगुण औदार्य शील औषधकारकः ।
करपङ्कजसन्नद्धधनुश्च करुणानिधिः ॥ २५॥

कालः कठिनचित्तश्च कालमेघसमप्रभः ।
किरीटी कर्मकृत् कारयिता कालसहोदरः ॥ २६॥

कालाम्बरः काकवाहः कर्मठः काश्यपान्वयः ।
कालचक्रप्रभेदी च कालरूपी च कारणः ॥ २७॥

कारिमूर्तिः कालभर्ता किरीटमकुटोज्वलः ।
कार्यकारण कालज्ञः काञ्चनाभरथान्वितः ॥ २८॥

कालदंष्ट्रः क्रोधरूपः कराळी कृष्णकेतनः ।
कालात्मा कालकर्ता च कृतान्तः कृष्णगोप्रियः ॥ २९॥

कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भवः ।
कृष्णवर्णहयश्चैव कृष्णगोक्षीरसुप्रियः ॥ ३०॥

कृष्णगोघृतसुप्रीतः कृष्णगोदधिषुप्रियः ।
कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रियः ॥ ३१॥

कृष्णगोदत्तहृदयः कृष्णगोरक्षणप्रियः ।
कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकः ॥ ३२॥

कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदः ।
कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदः ॥ ३३॥

कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदः ।
कृष्णगावप्रियश्चैव कपिलापशुषु प्रियः ॥ ३४॥

Do these remedies on Saturday

Share this story